अमरकोशः


श्लोकः

निदाघ उष्णोपगम उष्ण ऊष्मागमस्तपः । स्त्रियां प्रावृट् स्त्रियां भूम्नि वर्षा अथ शरत्स्त्रियाम् ॥ १९ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 निदाघ निदाघः पुंलिङ्गः नितरां दह्यतेऽत्र । घञ् कृत् अकारान्तः
2 उष्णोपगम उष्णोपगमः पुंलिङ्गः उष्णमुपगममत्र । समासः अकारान्तः
3 उष्ण उष्णः पुंलिङ्गः ओषति । नक् उणादिः अकारान्तः
4 ऊष्मागम ऊष्मागमः पुंलिङ्गः ऊष्मा तप आगमोऽत्र समासः अकारान्तः
5 तप तपः पुंलिङ्गः तपति । अच् कृत् अकारान्तः
6 प्रावृष् प्रावृट् स्त्रीलिङ्गः प्रकृष्टा वृडत्र । तत्पुरुषः समासः षकारान्तः
7 वर्षा वर्षा स्त्रीलिङ्गः वर्षं वर्षणमत्रास्ति । अच् तद्धितः आकारान्तः
8 शरद् शरद् स्त्रीलिङ्गः शीर्यन्तेऽस्यां पाकेनौषधय: । अदि उणादिः दकारान्तः
9 ऋतु ऋतुः पुंलिङ्गः तु उणादिः उकारान्तः