अमरकोशः


श्लोकः

परश्शताद्यास्ते येषां परा संख्या शतादिकात् । गणनीये तु गाणेयं संख्यातं गणितमथ समं सर्वम् ॥ ६४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 परश्शत परश्शतः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः शतात्परे तत्पुरुषः समासः अकारान्तः
2 गणनीय गणनीयः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः गण्यते अनीयर् कृत् अकारान्तः
3 गणेय गणेयः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः यत् कृत् अकारान्तः
4 संख्यात संख्यातः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः संख्यायते स्म क्त कृत् अकारान्तः
5 गणित गणितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः गण्यते स्म क्त कृत् अकारान्तः
6 समम् समम् पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः समति अच् कृत् मकारान्तः
7 सर्व सर्वः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः सरति वन् उणादिः अकारान्तः