अमरकोशः


श्लोकः

प्रद्रावोद्रावसंद्रावसंदावा विद्रवो द्रवः । अपक्रमोऽपयानं च रणे भङ्गः पराजयः ॥ १११ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 प्रद्राव प्रद्रावः पुंलिङ्गः प्रद्रवणम् । घञ् कृत् अकारान्तः
2 उद्द्राव उद्द्रावः पुंलिङ्गः उद्द्रवणम् । घञ् कृत् अकारान्तः
3 संद्राव संद्रावः पुंलिङ्गः संद्रवणम् । घञ् कृत् अकारान्तः
4 संदाव संदावः पुंलिङ्गः संद्रवणम् । घञ् कृत् अकारान्तः
5 विद्रव विद्रवः पुंलिङ्गः विद्रवणम् । अप् कृत् अकारान्तः
6 द्रव द्रवः पुंलिङ्गः अप् कृत् अकारान्तः
7 अपक्रम अपक्रमः पुंलिङ्गः अपक्रमणम् । घञ् कृत् अकारान्तः
8 अपयान अपयानम् नपुंसकलिङ्गः ल्युट् कृत् अकारान्तः
9 पराजय पराजयः पुंलिङ्गः पराजनयम् । घञ् कृत् अकारान्तः