अमरकोशः


श्लोकः

भटा योधाश्च योद्धारः सेनारक्षास्तु सैनिकाः । सेनायां समवेता ये सैन्यास्ते सैनिकाश्च ते ॥ ६१ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 भट भटाः पुंलिङ्गः भटति । अच् कृत् अकारान्तः
2 योध योधाः पुंलिङ्गः युध्यते । अच् कृत् अकारान्तः
3 योद्धृ योद्धारः पुंलिङ्गः युध्यते । तृच् कृत् ऋकारान्तः
4 सेनारक्ष सेनारक्षाः पुंलिङ्गः सेनां रक्षन्ति । अण् कृत् अकारान्तः
5 सैनिक सैनिकाः पुंलिङ्गः सेनां रक्षन्ति । ठक् तद्धितः अकारान्तः
6 सैन्य सैन्यः पुंलिङ्गः सेनायां समवैति । ण्य तद्धितः अकारान्तः
7 सैनिक सैनिकाः पुंलिङ्गः सेनायां समवैति । ठक् तद्धितः अकारान्तः