अमरकोशः


श्लोकः

समाकर्षी तु निर्हारी सुरभिर्घ्राणतर्पण: । इष्टगन्ध: सुगन्धिः स्यादामोदी मुखवासनः ॥ ११ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 समाकर्षिन् समाकर्षी पुंलिङ्गः समाकर्षत्यवश्यं मनः णिनिः कृत् नकारान्तः
2 निहरिन् निहरी पुंलिङ्गः एवं निह णिनिः कृत् नकारान्तः
3 सुरभि सुरभिः पुंलिङ्गः सुष्टु रभन्तेऽत्र सुरभिः । इन् उणादिः इकारान्तः
4 घ्राणतर्पण घ्राणतर्पणः पुंलिङ्गः घ्राणं तर्पयति । ल्यु कृत् अकारान्तः
5 इष्टगन्ध इष्टगन्धः पुंलिङ्गः इष्टो गन्धोऽस्य । समासः अकारान्तः
6 सुगन्धि सुगन्धिः पुंलिङ्गः सुष्टु गन्धोऽस्या । समासः इकारान्तः
7 आमोदिन् आमोदी पुंलिङ्गः आमोदयति । णिनिः कृत् नकारान्तः
8 मुखवासन मुखवासनः पुंलिङ्गः मुखं वासयति । ल्यु कृत् अकारान्तः