अमरकोशः


श्लोकः

जीवन्तिका सोमवल्ली विशल्या मधुपर्ण्यपि । मूर्वा देवी मधुरसा मोरटा तेजनी स्रवा ॥ ८३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 जीवन्तिका जीवन्तिका स्त्रीलिङ्गः जीवति । कन् तद्धितः आकारान्तः
2 सोमवल्ली सोमवल्ली स्त्रीलिङ्गः सोमस्य वल्ली ॥ तत्पुरुषः समासः ईकारान्तः
3 विशल्या विशल्या स्त्रीलिङ्गः विगतं शल्यमस्याः । बहुव्रीहिः समासः आकारान्तः
4 मधुपर्णी मधुपर्णी स्त्रीलिङ्गः मधुमयानि पर्णान्यस्याः । बहुव्रीहिः समासः ईकारान्तः
5 मूर्वा मूर्वा स्त्रीलिङ्गः मूर्वति । अच् कृत् आकारान्तः
6 देवी देवी स्त्रीलिङ्गः दीव्यति । अच् कृत् ईकारान्तः
7 मधुरसा मधुरसा स्त्रीलिङ्गः मधु रसोऽस्याः । बहुव्रीहिः समासः आकारान्तः
8 मोरटा मोरटा स्त्रीलिङ्गः मुरति । अटन् उणादिः आकारान्तः
9 तेजनी तेजनी स्त्रीलिङ्गः तेजति । ल्युट् कृत् ईकारान्तः
10 स्रवा स्रवा स्त्रीलिङ्गः स्रवति । अच् कृत् आकारान्तः