अमरकोशः


श्लोकः

पक्षितार्क्ष्यौ गरुत्मन्तौ शकुन्तौ भासपक्षिणौ । अग्न्यूत्पातौ धूमकेतू जीमूतौ मेघपर्वतौ ॥ ५८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 गरुत्मत् गरुत्मत् पुंलिङ्गः गरुतः सन्त्यस्य मतुप् तद्धितः तकारान्तः
2 शकुन्त शकुन्तः पुंलिङ्गः शक्नोति उन्त उणादिः अकारान्तः
3 धूमकेतु धूमकेतुः पुंलिङ्गः धूमः केतुश्चिह्नमस्य बहुव्रीहिः समासः उकारान्तः
4 जीमूत जीमूतः पुंलिङ्गः जीवनं मुञ्चति अकारान्तः