अमरकोशः


श्लोकः

निवेशः शिबिरं षण्ढे सज्जनं तूपरक्षणम् । हस्त्यश्वरथपादातं सेनाङ्गं स्याच्चतुष्टयम् ॥ ३३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 निवेश निवेशः पुंलिङ्गः निविशन्तेऽत्त्र । घञ् कृत् अकारान्तः
2 शिबिर शिबिरम् नपुंसकलिङ्गः शवन्त्यत्र । किरच् बाहुलकात् अकारान्तः
3 सज्जन सज्जनम् नपुंसकलिङ्गः सज्जन्ते (न्त्य) नेन । ल्युट् कृत् अकारान्तः
4 उपरक्षण उपरक्षणम् नपुंसकलिङ्गः उपरक्ष्यते अनेन । ल्युट् कृत् अकारान्तः
5 सेनाङ्ग सेनाङ्गम् नपुंसकलिङ्गः सेनाया अङ्गम् ॥ तत्पुरुषः समासः अकारान्तः