अमरकोशः


श्लोकः

तमालपत्रतिलकचित्रकाणि विशेषकम् । द्वितीयं च तुरीयं च न स्त्रियामथ कुङ्कमम् ॥ १२३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 तमालपत्र तमालपत्रम् नपुंसकलिङ्गः तमालपत्रमिव । तत्पुरुषः समासः अकारान्तः
2 तिलक तिलकम् नपुंसकलिङ्गः तिलति । क्वुन् उणादिः अकारान्तः
3 चित्रक चित्रकम् नपुंसकलिङ्गः चित्रयति । क्वुन् उणादिः अकारान्तः
4 विशेषक विशेषकः पुंलिङ्गः, नपुंसकलिङ्गः विशिनष्टि । ण्वुल् कृत् अकारान्तः
5 कुङ्कुम कुङ्कुमम् नपुंसकलिङ्गः कुङ्कुम्’ इति शब्दोऽस्ति वाचकत्वेनास्य । अच् तद्धितः अकारान्तः