अमरकोशः


श्लोकः

तच्छाखानगरं वेशो वेश्याजनसमाश्रयः । आपणस्तु निषद्यायां विपणिः पण्यवीथिका ॥ २ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 शाखानगर शाखानगरम् नपुंसकलिङ्गः शाखेव नगरम् ॥ समासः अकारान्तः
2 वेश वेशः पुंलिङ्गः विशन्त्यत्र । घञ् कृत् अकारान्तः
3 वेश्याजनसमाश्रय वेश्याजनसमाश्रयः पुंलिङ्गः वेश्याजनस्य समाश्रयो वासस्थानम् ॥ तत्पुरुषः समासः अकारान्तः
4 आपण आपणः पुंलिङ्गः आ समन्तात् पणायन्तेऽत्र, पणन्तेऽत्र वा । कृत् अकारान्तः
5 निषद्या निषद्या स्त्रीलिङ्गः निषीदन्त्यस्यां जनाः । क्यप् कृत् आकारान्तः
6 विपणि विपणिः पुंलिङ्गः, स्त्रीलिङ्गः विपणन्तेऽत्र । इक् कृत् इकारान्तः
7 पण्यवीथिका पण्यवीथिका स्त्रीलिङ्गः पण्यानां वीथी स्वार्थे तत्पुरुषः समासः आकारान्तः