अमरकोशः


श्लोकः

स्यात्पिच्छिलं तु विजिलं सम्मृष्टं शोधितं समे । चिक्कणं मसृणं स्निग्धं तुल्ये भावितवासिते ॥ ४६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 पिच्छिल पिच्छिलः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः पिच्छोऽस्यास्ति । इलच् तद्धितः अकारान्तः
2 विजिल विजिलः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः विजनम् । कृत् अकारान्तः
3 संमृष्ट संमृष्टः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः संमृज्यते स्म क्त कृत् अकारान्तः
4 शोधित शोधितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः शोध्यते स्म । क्त कृत् अकारान्तः
5 चिक्कण चिक्कणः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः चिक्कनम् । कृत् अकारान्तः
6 मसृण मसृणः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः मस्यति । ऋण बाहुलकात् अकारान्तः
7 स्निग्ध स्निग्धः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः स्निह्यति स्म । क्त कृत् अकारान्तः
8 भावित भावितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः भाव्यते स्म क्त कृत् अकारान्तः
9 वासित वासितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः वास्यते स्म । क्त कृत् अकारान्तः