अमरकोशः


श्लोकः

पटूपर्णी हैमवती स्वर्णक्षीरी हिमावती । हयपुच्छी तु काम्बोजी माषपर्णी महासहा ॥ १३८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 पटुपर्णी पटुपर्णी स्त्रीलिङ्गः पटूनि पर्णान्यस्याः । बहुव्रीहिः समासः ईकारान्तः
2 हैमवती हैमवती स्त्रीलिङ्गः हिमवति जाता । अण् तद्धितः ईकारान्तः
3 स्वर्णक्षीरी स्वर्णक्षीरी स्त्रीलिङ्गः स्वर्णमिव क्षीरमस्याः । बहुव्रीहिः समासः ईकारान्तः
4 हिमावती हिमावती स्त्रीलिङ्गः हिममस्त्यस्याः । मतुप् तद्धितः ईकारान्तः
5 हयपुच्छी हयपुच्छी स्त्रीलिङ्गः हयपुच्छमिव पर्णान्यस्याः । बहुव्रीहिः समासः ईकारान्तः
6 काम्बोजी काम्बोजी स्त्रीलिङ्गः कम्बोजे देशे भवा । अण् तद्धितः ईकारान्तः
7 माषपर्णी माषपर्णी स्त्रीलिङ्गः माषस्येव पर्णान्यस्याः। बहुव्रीहिः समासः ईकारान्तः
8 महासहा महासहा स्त्रीलिङ्गः महती सहा । तत्पुरुषः समासः आकारान्तः