अमरकोशः


श्लोकः

पुराणे प्रतनप्रत्नपुरातनचिरन्तनाः । प्रत्यग्रोऽभिनवो नव्यो नवीनो नूतनो नवः ॥ ७७ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 पुराण पुराणः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः पुरा भवम् ट्युट्युलौ तद्धितः अकारान्तः
2 प्रतन प्रतनः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः ट्यु तद्धितः अकारान्तः
3 प्रत्न प्रत्नः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः त्नः तद्धितः अकारान्तः
4 पुरातन पुरातनः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः पुरा भवम् ट्यु तद्धितः अकारान्तः
5 चिरन्तन चिरन्तनः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः चिरे भवम् ट्यु तद्धितः अकारान्तः
6 प्रत्यग्न प्रत्यग्नः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः प्रतिनवमग्रमस्य तत्पुरुषः समासः अकारान्तः
7 अभिनव अभिनवः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अभिनवते अप् कृत् अकारान्तः
8 नव्य नव्यः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः यत् कृत् अकारान्तः
9 नवीन नवीनः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः नव एव तद्धितः अकारान्तः
10 नूतन नूतनः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः नव एव तनप् तद्धितः अकारान्तः
11 नव नवः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः नूयते नूयते कृत् अकारान्तः