अमरकोशः


श्लोकः

कुमुदिन्यां नलिन्यां तु बिसिनी पद्मिनीमुखाः । वा पुंसि पद्यं नलिनमरविन्दं महोत्पलम् ॥ ३९ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 कुमुदिनी कुमुदिनी स्त्रीलिङ्गः कुमुदलताया इत्यन्ये । इनि तद्धितः ईकारान्तः
2 नलिनी नलिनी स्त्रीलिङ्गः नडा: सन्त्यत्र । इनि तद्धितः ईकारान्तः
3 विसिनी विसिनी स्त्रीलिङ्गः विसमस्त्यस्या: । इनि ईकारान्तः
4 पद्मिनी पद्मिनी स्त्रीलिङ्गः इनि ईकारान्तः
5 पद्म पद्मम् पुंलिङ्गः, नपुंसकलिङ्गः पद्यते । मन् उणादिः अकारान्तः
6 नलिन नलिनम् नपुंसकलिङ्गः नलति । इनन् उणादिः अकारान्तः
7 अरविन्द अरविन्दम् नपुंसकलिङ्गः अरं शीघ्रं लिप्सां विन्दति । शः अकारान्तः
8 महोत्पल महोत्पलम् नपुंसकलिङ्गः महच्च तदुत्पलं च । कर्मधारय समासः समासः अकारान्तः