अमरकोशः


श्लोकः

आचार्यानी तु पुंयोगे स्यादर्यी क्षत्रियी तथा । उपाध्यायान्युपाध्यायी पोटा स्त्रीपुंसलक्षणा ॥ १५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 आचार्यानी आचार्यानी स्त्रीलिङ्गः आचार्यस्य स्त्री । ङीष् स्त्रीप्रत्ययः ईकारान्तः
2 अर्यी अर्यी स्त्रीलिङ्गः अर्थस्य स्त्री । ङीष् स्त्रीप्रत्ययः ईकारान्तः
3 क्षत्रियी क्षत्रियी स्त्रीलिङ्गः क्षत्त्रियस्य स्त्री ॥ ङीष् स्त्रीप्रत्ययः ईकारान्तः
4 उपाध्यायानी उपाध्यायानी स्त्रीलिङ्गः उपाध्यायस्य स्त्री । ङीष् स्त्रीप्रत्ययः ईकारान्तः
5 उपाध्यायी उपाध्यायी स्त्रीलिङ्गः उपाध्यायस्य स्त्री । ङीष् स्त्रीप्रत्ययः ईकारान्तः
6 पोटा पोटा स्त्रीलिङ्गः पोटयति । अच् कृत् आकारान्तः