अमरकोशः


श्लोकः

अमृते जारजः कुण्ड: मृते भर्तरि गोलकः । भ्रात्रीयो भ्रातृजः भ्रातृभगिन्यौ भ्रातरावुभौ ॥ ३६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 कुण्ड कुण्डः पुंलिङ्गः कुड्यते कुलमनेन । घञ् कृत् अकारान्तः
2 गोलक गोलकः पुंलिङ्गः गुड्यते । घञ् कृत् अकारान्तः
3 भ्रात्रीय भ्रात्रीयः पुंलिङ्गः भ्रातुरपत्यम् । तद्धितः अकारान्तः
4 भ्रातृज भ्रातृजः पुंलिङ्गः भ्रातुर्जातः । कृत् अकारान्तः
5 भ्रातृभगिनी भ्रातृभगिनी स्त्रीलिङ्गः भ्राता च भगिनी च ॥ तत्पुरुषः समासः ईकारान्तः
5 भ्रातृ भ्रातरौ पुंलिङ्गः भ्राजते । तृच् उणादिः ऋकारान्तः