अमरकोशः


श्लोकः

माल्यं मालास्रजो मूर्ध्नि केशमध्ये तु गर्भकः । प्रभ्रष्टकं शिखालम्बि पुरो न्यस्तं ललामकम् ॥ १३५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 माल्य माल्यम् नपुंसकलिङ्गः मूर्ध्नि शिरसि । ण्यत् कृत् अकारान्तः
2 माला माला स्त्रीलिङ्गः मां लाति वा । घञ् कृत् आकारान्तः
3 स्रज् स्रज् स्त्रीलिङ्गः सृज्यते । क्विन् कृत् जकारान्तः
4 गर्भक गर्भकः पुंलिङ्गः गर्भ इव । कन् तद्धितः अकारान्तः
5 प्रभ्रष्टक प्रभ्रष्टकम् नपुंसकलिङ्गः प्रभ्रंशितुं प्रवृत्तम् । क्त कृत् अकारान्तः
6 ललामक ललामकम् नपुंसकलिङ्गः ललाममिव । कन् तद्धितः अकारान्तः