अमरकोशः


श्लोकः

विवर्णः पामरो नीचः प्राकृतश्च पृथग्जनः । निहीनोऽपसदो जाल्मः क्षुल्लकश्चेतरश्च सः ॥ १६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 विवरण विवरणः पुंलिङ्गः विगतो व यस्य यस्माद्वा । बहुव्रीहिः समासः अकारान्तः
2 पामर पामरः पुंलिङ्गः पामानं राति । कृत् अकारान्तः
3 नीच नीचः पुंलिङ्गः निकृष्टामीं लक्ष्मीं चिनोति । कृत् अकारान्तः
4 प्राकृत प्राकृतः पुंलिङ्गः प्रकृतौ भवः । अण् तद्धितः अकारान्तः
5 पृथग्जन पृथग्जनः पुंलिङ्गः सज्जनेभ्यः पृथग्भूतो जनः । तत्पुरुषः समासः अकारान्तः
6 निहीन निहीनः पुंलिङ्गः निश्चयेन हीनः । तत्पुरुषः समासः अकारान्तः
7 अपसद अपसदः पुंलिङ्गः अपकृष्टमपकृष्टे वा सीदति । अच् कृत् अकारान्तः
8 जाल्म जाल्मः पुंलिङ्गः जालयति । बाहुलकात् अकारान्तः
9 क्षुल्लक क्षुल्लकः पुंलिङ्गः क्षुधं लाति । कृत् अकारान्तः
10 इतर इतरः पुंलिङ्गः इना कामेन तीर्यते । अप् कृत् अकारान्तः