अमरकोशः


श्लोकः

गतयोऽमूः पञ्च धारा घोणा तु प्रोथमस्त्रियाम् । कविका तु खलीनोऽस्त्री शफं क्लीबे खुरः पुमान् ॥ ४९ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 धारा धारा स्त्रीलिङ्गः धार्यन्तेऽश्वा अत्र, अङ् कृत् आकारान्तः
2 घोणा घोणा स्त्रीलिङ्गः घोणते । अच् कृत् आकारान्तः
3 प्रोथ प्रोथः पुंलिङ्गः, नपुंसकलिङ्गः प्रोथति । अच् कृत् अकारान्तः
4 कविका कविका स्त्रीलिङ्गः कवते । उणादिः आकारान्तः
5 खलिन खलिनः पुंलिङ्गः, नपुंसकलिङ्गः खे मुखबिले लीनः ॥ तत्पुरुषः समासः अकारान्तः
6 शफ शफम् नपुंसकलिङ्गः शं फणति । कृत् अकारान्तः
7 खुर खुरः पुंलिङ्गः खुरति । कृत् अकारान्तः