अमरकोशः


श्लोकः

दुर्मना विमना अन्तर्मनाः स्यादुत्क उन्मनाः । दक्षिणे सरलोदारौ सुकलो दातृभोक्तरि ॥ ८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 दुर्मनस् दुर्मनस् पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः दु:स्थितं मनोऽस्य ॥ बहुव्रीहिः समासः सकारान्तः
2 विमनस् विमनस् पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः विगतं विविधं वा मनोऽस्य ॥ बहुव्रीहिः समासः सकारान्तः
3 अन्तर्मनस् अन्तर्मनस् पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अन्तर्मनोऽस्य ॥ बहुव्रीहिः समासः सकारान्तः
4 उत्क उत्कः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः उद्गतं मनोऽस्य । कन् तद्धितः अकारान्तः
5 उन्मनस् उन्मनस् पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः उद्गतं मनोऽस्य । बहुव्रीहिः समासः सकारान्तः
6 दक्षिण दक्षिणः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः दक्षते । इनन् उणादिः अकारान्तः
7 सरल सरलः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः सरति । अलच् उणादिः अकारान्तः
8 उदार उदारः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः उत्कृष्टमा समन्ताद् राति । कृत् अकारान्तः
9 सुकल सुकलः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः सुकल्यते । खल् कृत् अकारान्तः