अमरकोशः


श्लोकः

स्याच्चिन्ता स्मृतिराध्यानमुत्कण्ठोत्कलिके समे । उत्साहोऽध्यवसाय: स्यात् सवीर्यमतिशक्तिभाक् ॥ २९ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 चिन्ता चिन्ता स्त्रीलिङ्गः चिन्तनम् । अङ् कृत् आकारान्तः
2 स्मृति स्मृतिः स्त्रीलिङ्गः स्मरणम् । क्तिन् कॄदन्तः इकारान्तः
3 आध्यान आध्यानम् नपुंसकलिङ्गः ल्युट् कृत् अकारान्तः
4 उत्कण्ठा उत्कण्ठा स्त्रीलिङ्गः उत्कण्ठनम् । अः कृत् आकारान्तः
5 उत्कलिका उत्कलिका स्त्रीलिङ्गः क्वुन् उणादिः आकारान्तः
6 उत्साह उत्साहः पुंलिङ्गः उत्सहनम् । घञ् कृत् अकारान्तः
7 अध्यवसाय अध्यवसायः पुंलिङ्गः अध्यवसानम् । घञ् कृत् अकारान्तः
8 वीर्य वीर्यम् पुंलिङ्गः, नपुंसकलिङ्गः यत् तद्धितः अकारान्तः