अमरकोशः


श्लोकः

बाहुलोर्जौ कार्तिकिक: हेमन्त: शिशिरोऽस्त्रियाम् । वसन्ते पुष्पसमय: सुरभि ग्रीष्म ऊष्मकः ॥ १८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 बाहुल बाहुलः पुंलिङ्गः बहुलाः कृत्तिकाः । अण् तद्धितः अकारान्तः
2 ऊर्ज ऊर्जः पुंलिङ्गः ऊर्जयति उत्साहयति जिगीषून् । अच् कृत् अकारान्तः
3 कार्तिकिक कार्तिकिकः पुंलिङ्गः ठक् तद्धितः अकारान्तः
4 हेमन्त हेमन्तः पुंलिङ्गः हन्ति । झच् उणादिः अकारान्तः
5 शिशिर शिशिरः पुंलिङ्गः, नपुंसकलिङ्गः शशन्ति धावन्ति यस्मिन्पथिकाः । किरच् उणादिः अकारान्तः
6 वसन्त वसन्तः पुंलिङ्गः वसन्त्यत्र मदनोत्सवाः । झच् उणादिः अकारान्तः
7 पुष्पसमय पुष्पसमयः पुंलिङ्गः पुष्पाणां समयः । तत्पुरुषः समासः अकारान्तः
8 सुरभि सुरभिः पुंलिङ्गः सुष्टु रभन्ते रभसयुक्ता भवन्त्यत्र । इन् उणादिः इकारान्तः
9 ग्रीष्म ग्रीष्मः पुंलिङ्गः ग्रसते रसान् । मक् उणादिः अकारान्तः
10 ऊष्मक ऊष्मकः पुंलिङ्गः ऊषति रुजति । मनिन् कृत् अकारान्तः