अमरकोशः


श्लोकः

हल्या हलानां ब्राह्मण्यवाडव्ये तु द्विजन्मनाम् । द्वे पशुकानां पृष्ठानां पार्श्व पृष्ठ्यमिति क्रमात् ॥ ४१ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 हल्या हल्या स्त्रीलिङ्गः कृत् आकारान्तः
2 ब्राह्मण्य ब्राह्मण्यम् नपुंसकलिङ्गः ब्राह्मणानां समूहः यत् कृत् अकारान्तः
3 वाडव्य वाडव्यम् नपुंसकलिङ्गः वाडवानां समूहः कृत् अकारान्तः
4 पार्श्व पार्श्वम् नपुंसकलिङ्गः पर्शूनां समूहः णस् तद्धितः अकारान्तः
5 पृष्ठ्य पृष्ठ्यम् नपुंसकलिङ्गः पृष्ठानां समूहः यन् तद्धितः अकारान्तः