अमरकोशः


श्लोकः

विष्टिराजूः कारणा तु यातना तीव्रवेदना । पीडाबाधाव्यथा दु:खमामनस्यं प्रसूतिजम् ॥ स्यात्कष्टं कृच्छ्रमाभीलं त्रिष्वेषां भेद्यगामि यत् ॥ ३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 विष्टि विष्टिः स्त्रीलिङ्गः विशति क्लेशम् । क्तिच् कृत् इकारान्तः
2 आजू आजूः स्त्रीलिङ्गः आजवते । क्विप् कृत् ऊकारान्तः
3 कारणा कारणा स्त्रीलिङ्गः णिच् कृत् आकारान्तः
4 यातना यातना स्त्रीलिङ्गः णिच् कृत् आकारान्तः
5 तीव्रवेदना तीव्रवेदना स्त्रीलिङ्गः तीव्रा चासौ वेदना च । णिच् कृत् आकारान्तः
6 पीडा पीडा स्त्रीलिङ्गः अङ् कृत् आकारान्तः
7 बाधा बाधा स्त्रीलिङ्गः अङ् कृत् आकारान्तः
8 व्यथा व्यथा स्त्रीलिङ्गः अङ् कृत् आकारान्तः
9 दुःख दुःखम् नपुंसकलिङ्गः दुष्टानि खान्यस्मिन् । डः कृत् अकारान्तः
10 आमनस्य आमनस्यम् नपुंसकलिङ्गः मानसे साधु । यत् तद्धितः अकारान्तः
11 प्रसूतिज प्रसूतिजम् नपुंसकलिङ्गः प्रसूतेर्जातम् । डः कृत् अकारान्तः
12 कष्ट कष्टम् नपुंसकलिङ्गः द्वे वैमनस्यस्य इति स्वामी । क्तः कृत् अकारान्तः
13 कृच्छ्र कृच्छ्रम् नपुंसकलिङ्गः कृन्तति । रक् उणादिः अकारान्तः
14 आभील आभीलम् नपुंसकलिङ्गः आ समन्ताद् भियं लाति । कः कृत् अकारान्तः