अमरकोशः


श्लोकः

त्रिष्वामुक्तादयो वर्मभृतां कावचिकं गणे । पदातिपत्तिपदगपादातिकपदाजयः ॥ ६६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 कावचिक कावचिकम् नपुंसकलिङ्गः कवचिनां समूहः । ठञ् तद्धितः अकारान्तः
2 पदाति पदातिः पुंलिङ्गः पादाभ्यामतति । इण् उणादिः इकारान्तः
3 पत्ति पत्तिः पुंलिङ्गः पद्यते । ति बाहुलकात् इकारान्तः
4 पदग पदगः पुंलिङ्गः पादाभ्यां गच्छति । कृत् अकारान्तः
5 पादातिक पादातिकः पुंलिङ्गः पदातिरेव । ठक् तद्धितः अकारान्तः
6 पदाजि पदाजिः पुंलिङ्गः पादाभ्यामतति । इण् उणादिः इकारान्तः