अमरकोशः


श्लोकः

अभया त्वव्यथा पथ्या कायस्था पूतनाऽमृता । हरीतकी हैमवती चेतकी श्रेयसी शिवा ॥ ५९ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 अभया अभया स्त्रीलिङ्गः न भयमस्याः । बहुव्रीहिः समासः आकारान्तः
2 अव्यथा अव्यथा स्त्रीलिङ्गः न व्यथा यस्याः । बहुव्रीहिः समासः आकारान्तः
3 पथ्या पथ्या स्त्रीलिङ्गः पथोऽनपेता । यत् तद्धितः आकारान्तः
4 कायस्था कायस्था स्त्रीलिङ्गः कायस्तिष्ठत्यनया । तत्पुरुषः समासः आकारान्तः
5 पूतना पूतना स्त्रीलिङ्गः पूतं करोति । युच् उणादिः आकारान्तः
6 अमृता अमृता स्त्रीलिङ्गः आकारान्तः
7 हरीतकी हरीतकी स्त्रीलिङ्गः हरिर्वर्ण इतो यस्याम् । बहुव्रीहिः समासः ईकारान्तः
8 हैमवती हैमवती स्त्रीलिङ्गः हिमवति जाता । अण् तद्धितः ईकारान्तः
9 चेतकी चेतकी स्त्रीलिङ्गः चेतयति । ण्वुल् कृत् ईकारान्तः
10 श्रेयसी श्रेयसी स्त्रीलिङ्गः ईयसुन् तद्धितः ईकारान्तः
11 शिवा शिवा स्त्रीलिङ्गः शिवं करोति । अच् कृत् आकारान्तः