अमरकोशः


श्लोकः

नीलाम्बरो रौहिणेयस्तालाङ्को मुसली हली । सङ्कर्षणः सीरपाणिः कालिन्दीभेदनो बलः ॥ २४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 नीलाम्बर नीलाम्बरः पुंलिङ्गः नीलमम्बरं यस्य । बहुव्रीहिः समासः अकारान्तः
2 रौहिणेय रौहिणेयः पुंलिङ्गः रोहिण्या अपत्यम् । ढक् तद्धितः अकारान्तः
3 तालाङ्क तालाङ्कः पुंलिङ्गः तालोऽङ्को ध्वजो यस्य । बहुव्रीहिः समासः अकारान्तः
4 मुसलिन् मुसली पुंलिङ्गः मुसलमस्त्यस्य । कलच् उणादिः नकारान्तः
5 हलिन् हली पुंलिङ्गः हलमस्त्यस्य । इनि तद्धितः नकारान्तः
6 संकर्षण संकर्षणः पुंलिङ्गः संकर्षति, सम्यक् कृष्यते वा । ल्यु कृत् अकारान्तः
7 सीरपाणि सीरपाणिः पुंलिङ्गः सीरः पाणौ यस्य । बहुव्रीहिः समासः इकारान्तः
8 कालिन्दीभेदन कालिन्दीभेदनः पुंलिङ्गः कालिन्द्या भेदनः । षष्ठी समासः अकारान्तः
9 बल बलः पुंलिङ्गः बलमस्यास्ति । अच् तद्धितः अकारान्तः