अमरकोशः


श्लोकः

य: स्थण्डिले व्रतवशाच्छेते स्थण्डिलशाय्यसौ । स्थाण्डिलश्चाथ विरजस्तमसः स्युर्द्वयातिगाः ॥ ४४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 स्थण्डिलशायिन् स्थण्डिलशायी पुंलिङ्गः स्थण्डिले शेते । णिनि कृत् नकारान्तः
2 स्थाण्डिल स्थाण्डिलः पुंलिङ्गः स्थण्डिले शेते । अण् कृत् अकारान्तः
3 विरजस्तमस् विरजस्तमसः पुंलिङ्गः रजस्तमोभ्यां विगताः । तत्पुरुषः समासः सकारान्तः
4 द्वयातिग द्वयातिगः पुंलिङ्गः द्वयमतिगच्छन्ति । कृत् अकारान्तः