अमरकोशः


श्लोकः

कलङ्काङ्कौ लाञ्छनं च चिह्नं लक्ष्म च लक्षणम् । सुषमा परमा शोभा शोभा कान्तिद्युतिश्छवि: ॥ १७ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 कलङ्क कलङ्कः पुंलिङ्गः कं ब्रह्माणं लङ्कयति हीनतां गमयति, ज्ञापयति, वा । तत्पुरुषः समासः अकारान्तः
2 अङ्क अङ्कः पुंलिङ्गः अङ्कयतेऽनेन । घञ् कृत् अकारान्तः
3 लाञ्छन लाञ्च्छनम् नपुंसकलिङ्गः लाञ्छ्यतेऽनेन । ल्युट् कृत् अकारान्तः
4 चिह्न चिह्नम् नपुंसकलिङ्गः चाहयति, चह्यतेऽनेन वा । बाहुलकात् अकारान्तः
5 लक्ष्मन् लक्ष्म नपुंसकलिङ्गः लक्षयति । मनिन् कृत् नकारान्तः
6 लक्षण लक्षणम् नपुंसकलिङ्गः लक्षयति । उणादिः अकारान्तः
7 सुषमा सुषमा स्त्रीलिङ्गः शोभनं समं सर्वमनया । बहुव्रीहिः समासः आकारान्तः
8 शोभा शोभा स्त्रीलिङ्गः शोभयति । अच् कृत् आकारान्तः
10 कान्ति कान्तिः स्त्रीलिङ्गः काम्यते । क्तिन् कृत् इकारान्तः
11 द्युति द्युतिः स्त्रीलिङ्गः द्योततेऽनया । इन् उणादिः इकारान्तः
12 छवि छविः स्त्रीलिङ्गः छ्यति । क्विन् उणादिः इकारान्तः