अमरकोशः


श्लोकः

पारावारे परार्वाची तीरे पात्रं तदन्तरम् । द्वीपोऽस्त्रियामन्तरीपं यदन्तर्वारिणस्तटम् ॥ ८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 पार पारम् नपुंसकलिङ्गः परं तीरं पारम् । अच् कृत् अकारान्तः
2 अवार अवारम् नपुंसकलिङ्गः अर्वाक् तीरम्-अवारम् । घञ् कृत् अकारान्तः
3 पात्र पात्रम् नपुंसकलिङ्गः तयोः पारावारयोरन्तरं मध्यम् । ष्ट्रन् उणादिः अकारान्तः
4 द्वीप द्वीपम् पुंलिङ्गः, नपुंसकलिङ्गः द्विर्गता अन्तर्गता वा आपोऽत्र । अः अकारान्तः
5 अन्तरीप अन्तरीपम् पुंलिङ्गः, नपुंसकलिङ्गः द्विर्गता अन्तर्गता वा आपोऽत्र । अः अकारान्तः