अमरकोशः


श्लोकः

स्त्रियां बहुष्वप्सरसः स्वर्वेश्या उर्वशीमुखाः । हाहा हूहूश्चैवमाद्या गन्धर्वास्त्रिदिवौकसाम् ॥ ५२ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 अप्सरस् अप्सरसः स्त्रीलिङ्गः अद्भ्यः सरन्ति । तत्पुरुषः समासः सकारान्तः
2 स्वर्वेश्या स्वर्वेश्या स्त्रीलिङ्गः स्वः स्वर्गस्य वेश्या: । तत्पुरुषः समासः आकारान्तः
3 उर्वशी उर्वशी स्त्रीलिङ्गः उरून्महतोऽश्नुते व्याप्नोति वशीकरोतीति यावत् । अण् कृत् ईकारान्तः
4 हाहा हाहा पुंलिङ्गः हा इति शोकव्यञ्जकशब्दं जहाति । विच् कृत् आकारान्तः
5 हूहू हूहू पुंलिङ्गः हू इति ह्वयति । तत्पुरुषः समासः ऊकारान्तः
6 गन्धर्व गन्धर्वः पुंलिङ्गः गन्धं सौरभमर्वति । अण् कृत् अकारान्तः