अमरकोशः


श्लोकः

कर्पूरागरुकस्तूरीकक्कोलैर्यक्षकर्दमः । गात्रानुलेपनी वर्तिर्वर्णकं स्याद्विलेपनम् ॥ १३३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 यक्षकर्दम यक्षकर्दमः पुंलिङ्गः यक्षप्रियः कर्दमः ॥ तत्पुरुषः समासः अकारान्तः
2 गात्रानुलेपन गात्रानुलेपनः स्त्रीलिङ्गः गात्रमनुलिप्यते यया । ल्युट् कृत् अकारान्तः
3 वर्ति वर्तिः स्त्रीलिङ्गः वर्त्यते । उणादिः इकारान्तः
4 वर्णक वर्णकम् नपुंसकलिङ्गः वर्णं करोति । ण्वुल् कृत् अकारान्तः
5 विलेपन विलेपनम् नपुंसकलिङ्गः विलिप्यतेऽनेन । ल्युट् कृत् अकारान्तः