अमरकोशः


श्लोकः

विद्वान्विपश्चिद्दोषज्ञ: सन्सुधी: कोविदो बुधः । धीरो मनीषी ज्ञः प्रज्ञः संख्यावान्पण्डितः कविः ॥ ५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 विद्वस् विद्वस् पुंलिङ्गः शतृ कृत् सकारान्तः
2 विपश्चित् विपश्चित् पुंलिङ्गः प्रकृष्टं निश्चिनोति, चेतति, चिन्तयति, वा । तकारान्तः
3 दोषज्ञ दोषज्ञः पुंलिङ्गः दोषं जानाति । कृत् अकारान्तः
4 सत् सत् पुंलिङ्गः शतृ कृत् तकारान्तः
5 सुधी सुधीः पुंलिङ्गः सु सुष्ठु ध्यायति । क्विप् कृत् ईकारान्तः
6 कोविद कोविदः पुंलिङ्गः कोर्वेदस्य विदः । तत्पुरुषः समासः अकारान्तः
7 बुध बुधः पुंलिङ्गः बुध्यते । कृत् अकारान्तः
8 धीर धीरः पुंलिङ्गः धियं राति । कृत् अकारान्तः
9 मनीषिन् मनीषी पुंलिङ्गः मनीषास्यास्ति । इनि तद्धितः नकारान्तः
10 ज्ञ ज्ञः पुंलिङ्गः जानाति । कृत् अकारान्तः
11 प्राज्ञ प्राज्ञः पुंलिङ्गः कृत् अकारान्तः
11 संख्यावत् संख्यावत् पुंलिङ्गः संख्या विचारणास्त्यस्य । मतुप् तद्धितः तकारान्तः
13 पण्डित पण्डितः पुंलिङ्गः पण्ड्यतेऽनया । इतच् तद्धितः अकारान्तः
14 कवि कविः पुंलिङ्गः कवते, कौति, वा । उणादिः इकारान्तः