अमरकोशः


श्लोकः

द्वे याचितायाचितयोर्यथासंख्यं मृतामृते । सत्यानृतं वणिग्भावः स्यादृणं पर्युदञ्चनम् ॥ ३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 मृत मृतम् नपुंसकलिङ्गः मृतं चामृतं च ॥ क्त कृत् अकारान्तः
2 अमृत अमृतम् नपुंसकलिङ्गः क्त कृत् अकारान्तः
3 सत्यानृत सत्यानृतम् नपुंसकलिङ्गः सत्यसहितमनृतम् । तत्पुरुषः समासः अकारान्तः
4 वणिग्भाव वणिग्भावः पुंलिङ्गः वणिजो भावः ॥ तत्पुरुषः समासः अकारान्तः
5 ऋण ऋणम् नपुंसकलिङ्गः अर्यते स्म । क्त कृत् अकारान्तः
6 पर्युदञ्चन पर्युदञ्चनम् नपुंसकलिङ्गः परित उदश्यते । ल्युट् कृत् अकारान्तः