अमरकोशः


श्लोकः

क्षुद्राण्डमत्स्यसंघात: पोताधानमथो झषाः । रोहितो मद्गुर: शालो राजीवः शकुलस्तिमिः ॥ १९ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 क्षुद्राण्डमत्स्यसंघात क्षुद्राण्डमत्स्यसंघातः पुंलिङ्गः क्षुद्रादण्डाज्जाता मत्स्या: – क्षुद्राण्डमत्स्याः । तेषां संघातः । अकारान्तः
2 पोताधान पोताधानम् नपुंसकलिङ्गः पोते वहित्रे आधीयते । ल्युट् कृत् अकारान्तः
3 रोहित रोहितः पुंलिङ्गः रोहणम् । इतच् उणादिः अकारान्तः
4 मद्गुर मद्गुरः पुंलिङ्गः मज्जति । अकारान्तः
5 शाल शालः पुंलिङ्गः शाड्यते । घञ् कृत् अकारान्तः
6 राजीव राजीवः पुंलिङ्गः राजी रेखास्यास्ति । वः तद्धितः अकारान्तः
7 शकुल शकुलः पुंलिङ्गः शक्नोति गन्तुं वेगेन । उरच् बाहुलकाद् अकारान्तः
8 तिमि तिमिः पुंलिङ्गः ताम्यति । इन् उणादिः इकारान्तः