अमरकोशः


श्लोकः

पोत: पाकोऽर्भको डिम्भ: पृथुक: शावक: शिशुः । स्त्रीपुंसौ मिथुनं द्वन्द्वं युग्मं तु युगलं युगम् ॥ ३८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 पोत पोतः पुंलिङ्गः पुनाति, पवते वा । तन् उणादिः अकारान्तः
2 पाक पाकः पुंलिङ्गः पायते । कन् उणादिः अकारान्तः
3 अर्भक अर्भकः पुंलिङ्गः अर्यते वृद्धिं प्राप्यते । वुन् उणादिः अकारान्तः
4 डिम्भ डिम्भः पुंलिङ्गः डिम्भयति । अच् कृत् अकारान्तः
5 पृथुक पृथुकः पुंलिङ्गः पर्थयति । कुकन् उणादिः अकारान्तः
6 शावक शावकः पुंलिङ्गः शव्यते । घञ् कृत् अकारान्तः
7 शिशु शिशुः पुंलिङ्गः श्यति, शायते, वा । उणादिः उकारान्तः
8 स्रीपुंस स्रीपुंसः पुंलिङ्गः स्त्री च पुमांश्च । अच् तद्धितः अकारान्तः
9 मिथुन मिथुनम् नपुंसकलिङ्गः मेथति । उनन् उणादिः अकारान्तः
10 द्वन्द्व द्वन्द्वम् नपुंसकलिङ्गः द्वौ द्वौ । द्वन्द्वः समासः अकारान्तः
11 युग्म युग्मम् नपुंसकलिङ्गः युज्यते । मक् उणादिः अकारान्तः
12 युगल युगलम् नपुंसकलिङ्गः युगं लाति कलच् उणादिः अकारान्तः
13 युग युगम् नपुंसकलिङ्गः युज्यते । घञ् कृत् अकारान्तः