अमरकोशः


श्लोकः

कबन्धमुदकं पाथः पुष्करं सर्वतोमुखम् । अम्भोऽर्णस्तोयपानीयनीरक्षीराम्बुशम्बरम् ॥ ४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 कबन्ध कबन्धम् नपुंसकलिङ्गः कं सुखं बध्नाति । अण् कृत् अकारान्तः
2 उदक उदकम् नपुंसकलिङ्गः उनत्ति । क्वुन् उणादिः अकारान्तः
3 पाथस् पाथः नपुंसकलिङ्गः पाति । असुन् उणादिः सकारान्तः
4 पुष्कर पुष्करम् नपुंसकलिङ्गः पुष्णाति । करन् उणादिः अकारान्तः
5 सर्वतोमुख सर्वतोमुखम् नपुंसकलिङ्गः सर्वदिग्गमनात् । अकारान्तः
6 अम्भस् अम्भः नपुंसकलिङ्गः आप्नोति, आप्यते वा । असुन् उणादिः सकारान्तः
7 अर्णस् अर्णः नपुंसकलिङ्गः ऋच्छति । असुन् उणादिः सकारान्तः
8 तोय तोयम् नपुंसकलिङ्गः तौति । तुः सौत्र आवरणार्थः । यः उणादिः अकारान्तः
9 पानीय पानीयम् नपुंसकलिङ्गः पीयते । अनीयर् कृत् अकारान्तः
10 नीर नीरम् नपुंसकलिङ्गः नीयते । रक् उणादिः अकारान्तः
11 क्षीर क्षीरम् नपुंसकलिङ्गः क्षियति । क्रन् उणादिः अकारान्तः
12 अम्बु अम्बु नपुंसकलिङ्गः अम्बते । उः बाहुलकाद् उकारान्तः
13 शम्बर शम्बरम् नपुंसकलिङ्गः शं वृणोति । अच् कृत् अकारान्तः