अमरकोशः


श्लोकः

हिंसाकर्माभिचार: स्याज्जागर्या जागरा द्वयोः । विघ्नोऽन्तराय: प्रत्यूहः स्यादुपघ्नोऽन्तिकाश्रये ॥ १९ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 हिंसाकर्मन् हिंसाकर्मन्म् नपुंसकलिङ्गः हिंसाफलं कर्म तत्पुरुषः समासः नकारान्तः
2 अभिचार अभिचारः पुंलिङ्गः अभिचरणम् घञ् कृत् अकारान्तः
3 जागर्या जागर्या स्त्रीलिङ्गः जागरणम् यक् कृत् आकारान्तः
4 जागरा जागरा पुंलिङ्गः, स्त्रीलिङ्गः जागरणम् निपातनात् आकारान्तः
5 विघ्न विघ्नः पुंलिङ्गः विहननम् कृत् अकारान्तः
6 अन्तराय अन्तरायः पुंलिङ्गः अन्तर्मध्ये, अन्तरस्य व्यवधानस्य वायनम् घञ् कृत् अकारान्तः
7 प्रत्यूह प्रत्यूहः पुंलिङ्गः प्रत्यूहनम् घञ् कृत् अकारान्तः
8 उपघ्न उपघ्नः पुंलिङ्गः उपहन्यते ।उपहननं वा निपातनात् अकारान्तः
9 अन्तिकाश्रय अन्तिकाश्रयः पुंलिङ्गः अन्तिके आश्रीयते, आश्रयणं वा अच् कृत् अकारान्तः