अमरकोशः


श्लोकः

द्रुघणो मुद्गरघनौ स्यादीली करवालिका । भिन्दिपाल: सृगस्तुल्यौ परिघः परिघातनः ॥ ९१ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 द्रुघण द्रुघणः पुंलिङ्गः द्रर्वृक्षो हन्यतेऽनेन । अप् कृत् अकारान्तः
2 मुद्गर मुद्गरः पुंलिङ्गः मुदो गरः ॥ तत्पुरुषः समासः अकारान्तः
3 घन घनः पुंलिङ्गः हन्यतेऽनेन । अप् कृत् अकारान्तः
4 ईली ईली स्त्रीलिङ्गः ईर्यते वा । इन् उणादिः ईकारान्तः
5 करवालिका करवालिका स्त्रीलिङ्गः करं पालयति । अण् कृत् आकारान्तः
6 भिन्दिपाल भिन्दिपालः पुंलिङ्गः भिन्दिं पालयति । अण् कृत् अकारान्तः
7 सृग सृगः पुंलिङ्गः सरति । गक् बाहुलकात् अकारान्तः
8 परिघ परिघः पुंलिङ्गः परितो हन्यतेऽनेन । अप् कृत् अकारान्तः
9 परिघातिन् परिघातिन् पुंलिङ्गः परितो घातयत्यनेन ल्युट् कृत् नकारान्तः