अमरकोशः


श्लोकः

विद्याधरोऽप्सरोयक्षरक्षोगन्धर्वकिन्नराः । पिशाचो गुह्यकः सिद्धो भूतोऽमी देवयोनयः ॥ ११ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 विद्याधर विद्याधरः पुंलिङ्गः विद्याया गुटिकाञ्जनादिविषयिण्या धरो धारकः । तत्पुरुषः समासः अकारान्तः
2 अप्सरस् अप्सरसः स्त्रीलिङ्गः अद्भ्य: सरन्ति । असुन् उणादिः सकारान्तः
3 यक्ष यक्षः पुंलिङ्गः यक्ष्यते पूज्यते । घञ् तद्धितः अकारान्तः
4 रक्षस् रक्षः नपुंसकलिङ्गः रक्ष्यन्त्येभ्यो रक्षांसि । असुन् उणादिः सकारान्तः
5 गन्धर्व गन्धर्वः पुंलिङ्गः गन्धं सौरभमर्वति गन्धर्वः । अण् कृत् अकारान्तः
6 किंनर किन्नराः पुंलिङ्गः अश्वमुखत्वात्कुत्सिता नराः । तत्पुरुषः समासः अकारान्तः
7 पिशाच पिशाचः पुंलिङ्गः पिशितमश्नाति । अण् कृत् अकारान्तः
8 गुह्मक गुह्यकः पुंलिङ्गः गूहति निधिं रक्षति । ण्वुल् कृत् अकारान्तः
9 सिद्ध सिद्धः पुंलिङ्गः असेधीदिति सिद्धः । क्त कृत् अकारान्तः
10 भूत भूतः पुंलिङ्गः भूतिरस्यास्ति । अच् तद्धितः अकारान्तः