अमरकोशः


श्लोकः

मृधमास्कन्दनं संख्यं समीकं सम्परायकम् । अस्त्रियां समरानीकरणाः कलहविग्रहौ ॥ १०४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 मृध मृधम् नपुंसकलिङ्गः मर्धनम् । बाहुलकात् अकारान्तः
2 आस्कन्दन आस्कन्दनम् नपुंसकलिङ्गः ल्युट् कृत् अकारान्तः
3 संख्य संख्यम् नपुंसकलिङ्गः संख्यानम् । कृत् अकारान्तः
4 समीक समीकम् नपुंसकलिङ्गः समनम् । कीकन् उणादिः अकारान्तः
5 संपरायक संपरायकम् नपुंसकलिङ्गः सम्परायनम् । घञ् कृत् अकारान्तः
6 समर समरः पुंलिङ्गः समरणम् । कृत् अकारान्तः
7 अनीक अनीकः पुंलिङ्गः अननम् । इक उणादिः अकारान्तः
8 रण रणः पुंलिङ्गः रणनम् । अप् कृत् अकारान्तः
9 कलह कलहः पुंलिङ्गः कलस्य हननम् । कृत् अकारान्तः
10 विग्रह विग्रहः पुंलिङ्गः विग्रहणम् । अप् कृत् अकारान्तः