अमरकोशः


श्लोकः

भेके मण्डूकवर्षाभूशालूरप्लवदर्दुराः । शिली गण्डूपदी भेकी वर्षाभ्वी कमठी दुलिः ॥ २४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 भेक भेकः पुंलिङ्गः बिभेति । कन् उणादिः अकारान्तः
2 मण्डूक मण्डूकः पुंलिङ्गः मण्डयति जलाशयम् । ऊकण् उणादिः अकारान्तः
3 वर्षाभू वर्षाभूः पुंलिङ्गः वर्षासु भवति । क्विप् कृत् ऊकारान्तः
4 शालूर शालूरः पुंलिङ्गः शाडते । ऊरः उणादिः अकारान्तः
5 प्लव प्लवः पुंलिङ्गः अच् कृत् अकारान्तः
6 दर्दुर दर्दुरः पुंलिङ्गः दृणाति शब्दैः कर्णौं । उरच् उणादिः अकारान्तः
7 शिली शिली स्त्रीलिङ्गः शिलति । कः कृत् ईकारान्तः
8 गण्डूपदी गण्डूपदी स्त्रीलिङ्गः ईकारान्तः
9 भेकी भेकी स्त्रीलिङ्गः कन् ईकारान्तः
10 वर्षाभ्वी वर्षाभ्वी स्त्रीलिङ्गः ईकारान्तः
11 कमठी कमठी स्त्रीलिङ्गः ईकारान्तः
12 दुलि दुलिः स्त्रीलिङ्गः दोलति । किः उणादिः इकारान्तः