अमरकोशः


श्लोकः

कण्ठो गलोऽथ ग्रीवायां शिरोधि: कंधरेत्यपि । कम्बुग्रीवा त्रिरेखा साऽवटुर्घाटा कृकाटिका ॥ ८८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 कण्ठ कण्ठः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः कणति । उणादिः अकारान्तः
2 गल गलः पुंलिङ्गः गिलति । अच् कृत् अकारान्तः
3 ग्रीवा ग्रीवा स्त्रीलिङ्गः गीर्यतेऽनया । वण् उणादिः आकारान्तः
4 शिरोधि शिरोधिः स्त्रीलिङ्गः शिरो धीयतेस्याम् । कि कृत् इकारान्तः
5 कंधरा कंधरा स्त्रीलिङ्गः कं शिरो धारयति । खच् कृत् आकारान्तः
6 कम्बुग्रीवा कम्बुग्रीवा स्त्रीलिङ्गः कम्बुः शङ्ख इव ग्रीवा ॥ तत्पुरुषः समासः आकारान्तः
7 अवटु अवटुः पुंलिङ्गः, स्त्रीलिङ्गः अवटलति । डु कृत् उकारान्तः
8 घाटा घाटा स्त्रीलिङ्गः घाटयति घाट्यते, वा । अच् कृत् आकारान्तः
9 कृकाटिका कृकाटिका स्त्रीलिङ्गः कृकं कण्ठमटति । इन् उणादिः आकारान्तः