अमरकोशः


श्लोकः

पाक्योऽथ स्वर्जिकाक्षार: कापोत: सुखवर्चकः । सौवर्चलं स्याद्रुचकं त्वक्क्षीरी वंशरोचना ॥ १०९ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 पाक्य पाक्यः पुंलिङ्गः पाके साधुः । यत् तद्धितः अकारान्तः
2 स्वर्जिकाक्षार स्वर्जिकाक्षारः पुंलिङ्गः स्वर्जिकारसजः क्षारः । तत्पुरुषः समासः अकारान्तः
3 कापोत कापोतः पुंलिङ्गः कपोतवर्णोऽस्यास्ति । अण् तद्धितः अकारान्तः
4 सुखवर्चक सुखवर्चकः पुंलिङ्गः सुखं वर्चयति । क्वुन् उणादिः अकारान्तः
5 सौवर्चल सौवर्चलम् नपुंसकलिङ्गः सुवर्चलाया इदम् । अण् तद्धितः अकारान्तः
6 रुचक रुचकम् नपुंसकलिङ्गः रोचतेऽनेन । क्वुन् उणादिः अकारान्तः
7 त्वक्क्षीरी त्वक्क्षीरी स्त्रीलिङ्गः त्वचो वंशात् क्षीरमस्याः । बहुव्रीहिः समासः ईकारान्तः
8 वंशरोचना वंशरोचना स्त्रीलिङ्गः वंशस्य रोचना । तत्पुरुषः समासः आकारान्तः