अमरकोशः


श्लोकः

समरात्रिन्दिवे काले विषुवद्विषुवं च तत् । मार्गशीर्षे सहा मार्ग आग्रहायणिकश्च सः ॥ १४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 विषुवत् विषुवत् नपुंसकलिङ्गः विषु साम्येऽव्ययम् । मतुप् तद्धितः तकारान्तः
2 विषुव विषुवम् नपुंसकलिङ्गः तद्धितः अकारान्तः
3 मार्गशीर्ष मार्गशीर्षः पुंलिङ्गः मृगशिरसा युक्ता पौर्णमासी । अण् तद्धितः अकारान्तः
4 सहस् सहाः पुंलिङ्गः सहते । असुन् उणादिः सकारान्तः
5 मार्ग मार्गः पुंलिङ्गः एकदेशप्रयोगात् मृगोऽपि । ‘मृगशिरा मृगः' इति रुद्रकोषः । तद्युक्ता पौर्णमासी मार्गी । सास्मिन्नस्ति । अण् तद्धितः अकारान्तः
6 आग्रहायणिक आग्रहायणिकः पुंलिङ्गः आग्रहायण्या युक्ता पौर्णमास्यस्मिन् । ठक् तद्धितः अकारान्तः