अमरकोशः


श्लोकः

कटो ना श्रोणिफलकं कटिः श्रोणिः ककुद्मती । पश्चान्नितम्बः स्त्रीकट्या: क्लीबे तु जघनं पुरः ॥ ७४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 कट कटः पुंलिङ्गः कटते । कृत् अकारान्तः
2 श्रोणिफलक श्रोणिफलकम् नपुंसकलिङ्गः श्रोणेः फलकमिव । तत्पुरुषः समासः अकारान्तः
3 कटि कटिः स्त्रीलिङ्गः कट्यते । इन् उणादिः इकारान्तः
4 श्रोणि श्रोणिः स्त्रीलिङ्गः श्रोणति । इन् उणादिः इकारान्तः
5 ककुद्मती ककुद्मती स्त्रीलिङ्गः ककुद् वृषांस इव मांसपिण्डः ककुत् । मतुप् तद्धितः ईकारान्तः
6 नितम्ब नितम्बः पुंलिङ्गः नितम्बति । अच् कृत् अकारान्तः
7 जघन जघनम् नपुंसकलिङ्गः हन्यते । अच् उणादिः अकारान्तः