अमरकोशः


श्लोकः

कक्कोलकं कोशफलमथ कर्पूरमस्त्रियाम् । घनसारश्चन्द्रसंज्ञः सिताभ्रो हिमवालुका ॥ १३० ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 कक्कोलक कक्कोलकम् नपुंसकलिङ्गः ककन्तेऽत्र । तत्पुरुषः समासः अकारान्तः
2 कोशफल कोशफलम् नपुंसकलिङ्गः कोशे फलमस्य ॥ बहुव्रीहिः समासः अकारान्तः
3 कर्पूर कर्पूरः पुंलिङ्गः, नपुंसकलिङ्गः किरति । तत्पुरुषः समासः अकारान्तः
4 घनसार घनसारः पुंलिङ्गः घनो दृढः सारोऽस्य । बहुव्रीहिः समासः अकारान्तः
5 चन्द्रसंज्ञ चन्द्रसंज्ञः पुंलिङ्गः चन्द्रस्य संज्ञा संज्ञा यस्य ॥ बहुव्रीहिः समासः अकारान्तः
6 सिताभ्र सिताभ्रः पुंलिङ्गः सितं शैत्यं बन्धनं वा चन्द्रं वा अभ्रति । अण् कृत् अकारान्तः
7 हिमवालुका हिमवालुका स्त्रीलिङ्गः हिमा चासौ वालुका च ॥ तत्पुरुषः समासः आकारान्तः