अमरकोशः


श्लोकः

पञ्च त्रिष्वषडक्षीणो यस्तृतीयाद्यगोचरः । विविक्तविजनच्छन्ननि:शलाकास्तथा रहः ॥ २२ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 अषडक्षीण अषडक्षीणः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अविद्यमानानि षड् अक्षीण्यत्र । बहुव्रीहिः समासः अकारान्तः
2 विविक्त विविक्तः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः विविञ्चन्ति जना अत्र । क्त कृत् अकारान्तः
3 विजन विजनः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः विगतो जनोऽस्मात् ॥ बहुव्रीहिः समासः अकारान्तः
4 छन्न छन्नः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः छद्यते स्म क्त कृत् अकारान्तः
5 नि:शलाक नि:शलाकः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः निर्गता शलाकाप्यस्मात् । बहुव्रीहिः समासः अकारान्तः
6 रहस् रहस्म् नपुंसकलिङ्गः रह्यते । असुन् उणादिः सकारान्तः