अमरकोशः


श्लोकः

असुरा दैत्यदैतेयदनुजेन्द्रारिदानवाः । शुक्रशिष्या दितिसुताः पूर्वदेवाः सुरद्विषः ॥ १२ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 असुर असुराः पुंलिङ्गः अस्यन्ति क्षिपन्ति देवान् असुराः । उरन् उणादिः अकारान्तः
2 दैत्य दैत्यः पुंलिङ्गः दितेरपत्यानि । ण्य तद्धितः अकारान्तः
3 दैतेया दैतेयः पुंलिङ्गः दितेरपत्यानि । ढक् तद्धितः आकारान्तः
4 दनुज दनुजः पुंलिङ्गः दनोर्दनौ वा जाताः । कृत् अकारान्तः
5 इन्द्रारि इन्द्रारिः पुंलिङ्गः इन्द्रस्यारयः । षष्ठी समासः इकारान्तः
6 दानव दानवः पुंलिङ्गः दनोरपत्यानि । अण् तद्धितः अकारान्तः
7 शुक्रशिष्य शुक्रशिष्याः पुंलिङ्गः शुक्रस्य शिष्याः । षष्ठी समासः अकारान्तः
8 दितिसुत दितिसुताः पुंलिङ्गः दितेः सुताः षष्ठी समासः अकारान्तः
9 पूर्वदेव पूर्वदेवाः पुंलिङ्गः पूर्वे च ते देवाश्च । तत्पुरुषः समासः अकारान्तः
10 सुरद्विष् सुरद्विषः पुंलिङ्गः सुरान् द्विषन्ति । तत्पुरुषः समासः षकारान्तः