अमरकोशः


श्लोकः

स्याद्दयालुः कारुणिक: कृपालुः सूरतः समाः । स्वतन्त्रोऽपावृतः स्वैरी स्वच्छन्दो निरवग्रहः ॥ १५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 दयालु दयालुः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः आलुच् कृत् उकारान्तः
2 कारुणिका कारुणिका पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः करुणा शीलमस्य । ठक् तद्धितः आकारान्तः
3 कृपालु कृपालुः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः कृपां लाति । डुः कृत् उकारान्तः
4 सूरत सूरतः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः शोभन उः शम्भुः । सूः । स्वि रतः, रतं वा यस्य । तत्पुरुषः समासः अकारान्तः
5 स्वतन्त्र स्वतन्त्रः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः स्व आत्मा तन्त्रं प्रधानमस्य ॥ बहुव्रीहिः समासः अकारान्तः
6 अपावृत अपावृतः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अपगतमावृतमावरणमस्य । तत्पुरुषः समासः अकारान्तः
7 स्वैरिन् स्वैरिन् पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः स्वेनेरितुं शीलमस्य । णिनि तद्धितः नकारान्तः
8 स्वच्छन्द स्वच्छन्दः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः स्वः छन्दोऽभिलाषो यस्य ॥ बहुव्रीहिः समासः अकारान्तः
9 निरवग्रह निरवग्रहः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः निष्क्रान्तोऽवग्रहान्नियमात् । तत्पुरुषः समासः अकारान्तः